पूर्वम्: ६।१।१४१
अनन्तरम्: ६।१।१४३
 
सूत्रम्
आश्चर्यमनित्ये॥ ६।१।१४२
काशिका-वृत्तिः
आश्चर्यम् अनित्ये ६।१।१४७

अनित्यतया विषयभूतया अद्भुतत्वम् इह उपलक्ष्यते, तस्मिन्नाचर्यं निपात्यते। चरेराङि चागुरौ इति यत्प्रत्यये कृते निपातनात् सुट्। आश्चर्यं यदि स भुञ्जीत। आश्चर्यं यदि सो ऽधीयीत। चित्रम् अद्भुतम् इत्यर्थः। अनित्ये इति किम्? आचर्यं कर्म शोभनम्।
न्यासः
आर्श्चयमनित्ये। , ६।१।१४२

यद्यनित्येऽशा()आतिक आश्चर्यमिति निपात्यते, ततो, घटादिष्वपि स्यादित्येतं दोषं परिजिहीर्षुराह--"अनित्यतया" इत्यादि। अद्भुतम्()=चित्रमित्युच्यते। यल्लोकेऽद्भुतं तच्चित्रम्(), तस्य भावोऽद्भुतत्वम्()। तस्य चान्यत्राभावादनित्यता विषयभूता, न हि तत्र ततोऽन्यत्र सम्भवति। तस्मात्? तया विषयभूतयाऽद्भुतत्वमुपलक्ष्यते। "आशस्चर्यं यदि स भुञ्जीत" इति। "अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि" ३।३।१४५ इत्यनवक्लृप्तावसम्भावनायां लिङ्। भोजनं कस्यचिद्विशिष्टकालादावदृष्टपूर्वम्()। अतस्तत्र भवत्? तदद्भुतं भवति॥
बाल-मनोरमा
आश्चर्यमानित्ये १०४७, ६।१।१४२

आश्चर्यमनित्ये। अद्भुते गम्ये आङ्पूर्वकस्य चरेः सुट्। "चरेराङि चाऽगुरौ" इति यत्। अनित्यग्रहणमपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्याह--अद्भुते सुडिति। तेन आश्चर्य नीला द्यौः, आश्चर्यमन्तरिक्षे यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसंग्रहः। अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यत इत्युक्ते तु एतन्न सिध्येत्।

तत्त्व-बोधिनी
आश्चर्यमानत्ये ८७५, ६।१।१४२

आश्चर्यमिति। आडः परस्य चरेः सुट्। "चरेराङि चाऽगुरौ"इति यत्।